पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ अष्टमस्तरङ्गः ।

यन्मत्पितृव्ये निहते कृतमुच्छिष्टजीविभिः ।
मान्यानां भवतां सिद्धं हा धिक्तदपि नाधुना ॥ १३६१ ॥
इत्युपालम्भमानस्तान्द्वित्रैरन्तिकमागतैः ।
स्वकैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः ॥ १३६२ ॥
प्रस्थानं लोहरे केचिदूचुः संत्यज्य मण्डलम् ।
त्वरां च तत्र राज्यन्ते वदन्तो भैक्षवं भयम् ॥ १३६३ ॥
गर्गात्मजं पञ्चचन्द्रमालम्ब्य लहरस्थितम् ।
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ १३६४ ॥
नहि स्वगृहवद्भिक्षोर्विविक्षोर्नगरान्तरम् ।
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ १३६५ ॥
आत्मन्यसंभावनया तादृशां मत्रिणां नृपः ।
॥ १३६७ ॥
सान्तः खेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ १३६६ ॥
कालापेक्षापरित्यक्तपितृव्यापत्तिदुःस्थितः ।
स कोशादिष्वथादिक्षदक्षिणस्त्राणदीक्षितान्
इतश्चेतश्च बम्भ्रम्यमाणैः प्रोद्यत्तस्वरम् ।
अन्योन्याख्यायिभिर्लोकैः पुरं मुखरतामगात् ॥ १३६८ ॥
मत्तवेतालमालेव कालरात्र्याकुलेव च ।
बभूव सा यामवती सर्वभूतभयावहा ॥ १३६९ ॥
दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मन्त्रिभिः ।
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ १३७० ॥
निर्द्वारे सतमस्युग्रमारुते शून्यवेश्मनि ।
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ १३७१ ॥
कष्टमेतादृशासह्यवैशसक्षालनावधि ।
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ १३७२ ॥