पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ राजतरङ्गिणी

विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ ।
प्रेमाख्येनैत्य दुर्वार्ता धात्रीयेण व्यधीयत ॥ १३४९ ॥
संभाव्यते योनुभावः सशस्त्रस्याप्रियश्रुतौ ।
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ १३५० ॥
मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः ।
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ १३५१ ॥
मदर्थं कुर्वता राज्यं प्रयत्नादपकण्टकम् ।
अधमे किं महाराज त्वयात्मा परिभावितः ॥ १३५२ ॥
अहेतेः पश्यतः शत्रूनन्ते वैरविशुद्धये ।
अपि ते मानिनोगच्छंस्तात संभावनाभुवम् ॥ १३५३ ॥
त्वया निषेधिते वैरे पिता भ्राता च ते दिवि ।
निर्मन्युः संप्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ १३५४ ॥
अनरण्यकृपद्रोणजामदम्यादिषु स्पृहाम् ।
कुल्यक्षालितवैरेषु मा कार्षीः कांचन क्षणम् ॥ १३५५ ॥
शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप ।
दूये न तत्र यातं यत्रैलोक्यमभियोज्यताम् ॥ १३५६ ॥
वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् ।
मद्दर्शने यदासीत्ते तन्मे पुर इवाधुना ॥ १३५७ ॥
इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः ।
हीशोकभयमूकान्स ददर्शाप्तान्पितुः पुरः ॥ १३५८ ॥
अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् ।
तथाप्येवं स तानूचे किंचिदाक्षेपकर्कशम् ॥ १३५९ ॥
कोशैः सद्वंशतां वीक्ष्य कुरुतः सत्क्रियां गताः ।
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ १३६० ॥