पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० राजतरङ्गिणी

स बन्धाविव निर्बंन्धाद्विशश्वास यदुत्पले |
तत्र संभाव्यते केन दैवादन्यो विमोहकृत् ॥ १२७८ ॥
टिक्कादयो भूमिपतेः सुज्जेर्वान्यतमे हते ।
त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ १२७९ ॥
सुजिर्न व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् ।
तत्र तत्राभवत्सज्जः प्रसङ्गं नासदत्पुनः ॥ १२८० ॥
प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः ।

प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ १२८१ ॥
व्याघ्रप्रशस्तराजास्तीक्ष्णांश्चात्मसरान्परान्
आदाय कार्यमेतैमें सिध्येदित्युक्तवान्नृपम् ॥ १२८२ ॥
उञ्चित्योञ्चित्य सेनाभ्यो गृहीतैः साहसक्षमैः ।
शतैः समं त्रिचतुरैः पत्तीनामेकदाययौ ॥ १२८३ ॥
समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा ।
प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ १२८४ ॥
तुरंगं मन्दुराचक्रवर्त्याख्यं नगरस्थितम् ।
अस्वस्थमुल्लाघयितुं तुरगव्यसनी नृपः ॥ १२८५ ॥
स लक्ष्मकप्रतीहारकरदात्मजमुखान्निजान् ।
पार्श्वाद्विसृष्टवानासीत्क्षणे तस्मिन्मितानुगः ॥ १२८६ ॥
शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् ।
व्यधाच्छ्रतिपथे राशस्तदुत्पलचिकीर्षितम् ॥ १२८७ ॥
विरुद्धे बन्धुधीदृष्टहिंसारम्भेपि संभवेत् ।
आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ १२८८ ॥
स शापो गान्धार्यास्तदपि सरुषो भाषितमृषे-
स्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयन् ।

१ अन्यतरे इत्युचितम् ।