पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ अष्टमस्तरङ्गः ।

धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् ।
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ १२४३ ॥
पुत्रपत्नीसुहृद्धृत्या येषां शङ्कानिकेतनम् ।
वित्रम्भभूर्भूपतीनां कस्तेषामिति वेत्ति कः ॥ १२४४ ॥
साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः ।
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ १२४५ ॥
शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः ।
गृहीतशस्त्रं तन्नित्यं क्रमाट्टिकस्य लब्धवान् ॥ १२४६ ॥
प्रथमाव्दात्प्रभृत्यात्तदूत्यो भूभर्तुराप्तताम् ।
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ १२४७ ॥
स हि भिक्षाचरं टिक्कमथ व्यापादयेत्यमुम् ।
जगादाङ्गीकृतैश्वर्यदानष्टिकोपवेशने ॥ १२४८ ॥
कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः ।
दानैरुपाचरद्गञ्जपतिनाम्नाप्ययोजयत् ॥ १२४९ ॥
भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः ।
स कार्य परिहार्य वा न कृत्यं निश्चिकाय तत् ॥ १२५० ॥
प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः ।
ततश्च प्राहिणोत्तस्यै पितेव प्रसवोचितम् ॥ १२५१ ॥
सा तस्यात्युपचारस्य कारणं परिशङ्किता ।
पति पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ १२५२ ॥
न कार्य: स्वामिनो द्रोहः कृते वास्मिन्स सुस्सलः ।
त्वामेव शनकैर्हन्याद्रोग्धायमिति चिन्तयन् ॥ १२५३ ।।
वरं स एव विश्वास्य व्यापाद्यस्तत्र चेदधः ।
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ १२५४ ॥