पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

आशङ्कय कोट्टभ्रुत्येभ्य:प्रबेशे प्रत्यवस्थितिम्‌ ।
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान्‌ ॥ १० ॥
कुर्याममुं न्रुपमहं प्रातिहायें समाचरन्‌ ।
नम्रा: स्वभ्रुत्यवत्तस्थुर्भुभुजो भूम्यनन्तराः ॥ १२॥
दिनानि सप्त संरुद्धे मार्गे तदनुयायिनाम्‌ ।
गायनः कनको लब्धान्तरो देशान्तरो ययौ ॥ १२ ॥
वाराणस्यां विजहता निर्वेदात्तेन जीवितम्‌ ।
हर्षभुभर्तुभ्रुत्येषु व्यक्तं निन्ये कृतज्ञता ॥ १३ ॥
ऊर्ध्वाधिरोहमं दाश्चिण्याहस्यूनामुच्चमल: पुनः ।
सेवास्मृत्या खुधीः सेहे चन्दनो भोगिनामिव ॥ १४ ॥
तथा जनकचन्द्रेण दर्पाह्यवह्रुमं तदा ।
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ १५ ॥
अभयस्योरशाभर्तुस्तनयायामजीजनत् ।
राझ्यां विभवमत्यां यं भोजो हर्षनृपात्मज: ॥ १६ ॥
जातं मृतद्वित्रपुत्रानन्तरं गुरुभिः शिशुम् ।
आयुष्कामैस्तमावद्धाभिक्षाचराभिधम्॥ १७ ॥
ह्यब्दमप्यरिसंतानतन्तुत्वेनाप्रियोचितम्‌ ।
ररक्ष तद्गिरा राजा राज््याश्चाङ्के समार्पयत् ॥ १८ ॥
तिलकम् ॥
तमादाय स्वयं वासौ यावद्राज्येकरोन्मनः ।
तावद्वभारेङ्गितज्ञो नीतिकौटिल्यमुश्चल: ॥ १९. ॥
तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः ।
एष एवातिसत्काराद्यद्धास्तु विशदाशय: ॥ २० ॥
इति संचिन्त्य स द्वारदित्सां तस्योदघोषयत्‌ ।
यथा विकारं प्रययुर्भीमादेवादयोखिखाः ॥ २१ ॥ `