पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

पौषे सुवर्णसानूरान्निहन्तुं मातुरन्तिकम् ।
टिक्कं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ ११३६ ॥
स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता ।
अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ ११३७ ॥
स स्त्रीवधं व्यधात्पापी द्वितीयमपि निर्घृणः ।
विशेष: कोथवा तिर्यङ्लेच्छतस्कररक्षसाम् ॥ ११३८ ॥
अबलां स्वामिनी हन्यमानां त्यक्त्वा पलायिताः ।
चित्रं पशूपमाः शस्त्रं स्वीचकुर्लाहराः पुनः ॥ ११३९ ॥
ईषत्प्रागागतं शय्यां भूय एवोल्बणं नृपः ।
ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ ११४० ॥
मल्लराजतनूजानां निजा जिहैव दुर्जना ।
बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ ११४१ ॥
प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः ।
दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ ११४२ ॥
आबाल्यात्संस्तुतालीलवचः परुषभाषितैः ।
निर्गौरवैर्यशोराजो राशि तस्मिन्व्यरज्यत ॥ ११४३ ॥
स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः ।
अभजत्तत उत्थाय प्रतिपक्षसमाश्रयम् ॥ ११४४ ॥
वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् ।
विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ ११४५ ॥
धिग्राज्यं यत्कृते सोपि सेहे प्राणानिरक्षिषुः ।
मुष्णद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ ११४६ ॥
माघे पलाय्य नगरं प्रविष्टः स वथाभिधे ।
भृत्ये द्रोग्धर्यशङ्किष्ट स्वेषामपि तनूरुहाम् ॥ ११४७ ॥