पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
अष्टमस्तङ्ग:


वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम्‌ ।
इति प्रायान्नवमतठं त्यक्त्वा राजगृहं नृप: ॥ १०५२ ॥
वषेष्टानवते चैत्रे डामरेषु युयुत्सुषु ।
अभ्येत्य मल्लकोष्टेन प्रागेवाग्राहि संगरः ॥ १०५३ ॥
सोश्ववारौ: सह रणं चकार नगरान्तरे ।
नृपाबरोधै: सौधाग्रादालोकितमथाकुलै: ॥ १०५४ ॥
भिक्षुणा क्षिप्तिकार्तारे स्कन्धावारो न्यवध्यत ।
नृपोद्यानाध्रुमान्निन्युरिन्धनाय महानसे ।
दूर्वाङकुरन्मन्दुराभ्यो वाहभोज्याय डामर; ॥ १०५६ ॥
पृथ्विहस्तु संगृह्यन्दस्यून्मडवराज्यजन् ।
चकार वेजयक्षेत्रे यावत्कटकसंग्रहम् ॥ १०५७ ॥
तावत्प्रज्जिमुखान्मल्लकोष्टयूध्दाय भूपतिः ।
आदिश्यादादवस्कन्दं वैशाखे साहसोन्मुखः ॥ २०५८ ॥
अकस्मात्पतिते तस्मिन्ह्तावष्टम्भविक्षताः ।
प्रययुः सेतुमुल्लङघय जीवश्वस्ता: कथंचन ॥ १०५९ ॥
नगरं मल्लकोष्टाजिव्यग्र प्रज्जावथाविशत्‌ ।
पृथ्वीहरानुजः सुर्ज्जि निर्जित्य मनुजेश्वरः ॥ १०६० ॥
परं पारं वितस्तायाः सेतुच्छेदादनाप्रुवन्‌ ।
अर्वाचि तीरे स गृहान्दग्ध्वागात्क्षिप्तिकां ततः ॥ १०६१ ॥
लवन्यौर्नगरं प्राप्तं मत्वा सुस्सलभूपतिः ।
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विहल: ॥ १०६२ ॥
अह्ं पूर्विकयारातिशङ्कातैच्च निजैर्बलै: ।
पीडीतस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ १०६३ ॥