पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वाक्यार्थतेति शङ्कयम् । विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः परमु- खनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्क- रुणत्वादिबोधकं किंचिदपि स्यात् । नापि स्वप्नस्य । वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य संकरः । इदं तु नोदाहार्यम्- 'गाढमालिङ्गय सकलां यामिनीं सह तस्थुषीम् । निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥ विबोधस्य चेतनापदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां ना- यिकाभ्यां द्वौकालावुपभोगार्थ दत्त्वा यथोचिते काल एकामुपभुज्य काला- न्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् । परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूत- श्चित्तवृत्तिविशेषोऽमर्षः। प्राग्वत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् । उदाहरणम्- 'वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्ज प्रियस्य । शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे हि यतः । तस्मिन्विबोधे । तस्या अप्यसूयाया अपि । स्वप्नत्यं वाक्यार्थतेति शङ्कयमि- त्यस्यानुषङ्गः । जलाहरणकर्तृत्वेन बोधकवारिवा हशब्दस्य सत्त्वात्, अत आह- अस्तु वा स्वप्नभावेति । इदं वक्ष्यमाणम् । सकलां यामिनीमभिव्याप्य सह स्थितवर्ती निद्रां गाढमालिङ्गयाथ च प्रातस्तां विहाय स चेतनामालिलिङ्गेत्यन्वयः । नन्वेवं विबोध- भावध्वनित्वाभावेऽपि कस्येदमुदाहरणम्, अत आह-यथेत्यादि । प्राग्वद्विबोधवत् । कारणानां परकृतावज्ञादीनाम् । कार्याणां मौनादीनाम् । आमृण्य संस्पृश्य । जोषं जोषमिति । निर्निमेषं दृष्ट्वा दृष्ट्वेत्यर्थः । जोषमेव तूष्णीमेव । भामिनी कर्त्री । अत्राद्वि- संग्राह्यविभावानुभावयोः सत्वमित्याह-इह त्विति । इदं च निर्निमेषनिरीक्षणं सेवा-