पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ८९ अनुभावौ । ननु क्रोधामर्षयोः स्थायिसंचारिणो वयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृ- त्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् । ब्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशे- षोऽवहित्थम् । तदुक्तम्- 'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयब्रीडाधाष्टर्यकौटिल्यगौरवैः ॥' यथा- 'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥'

अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भया- दिप्रयोज्यमप्युदाहार्यम् । अधिक्षेपापमानादिमभवा किमस्य करोमीत्याद्याकारा चित्तवृ- त्तिरुग्रता। यदाहु:- 'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्सने । एते यत्रानुभावास्तदौग्त्र्यं निर्दयतात्मकम् ॥' इति । र्थकजुषा णमुला च गम्यं तदाह- निर्निमेषेति । इदमुपलक्षणम् । मौनमप्यनुभावो बोध्यः । किं भेदकमिति । उक्तकारणकार्ययोस्तु ऐक्यमेवेति भावः। तत्र तु विषय- तावैलक्षण्ये तु । कार्येति । क्रोधामर्षयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामि- ति । हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेषः । अनुभावेत्यस्य हर्षा- दिजन्येत्यादिः । तदवहित्थम् । भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे । गो- पानां प्रसङ्गे इत्याद्यन्वयः । पन्नगपतेः कालियस्य । साश्चर्यमाश्चर्येण सहितम् । ताण्डव- विधिं यदुपतेरिति भावः । तादृशेति । विषवमनकर्त्रित्यर्थः । असदिति ।

१२