पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० काव्यमाला। यथा- 'अवाप्य भङ्ग खलु संगराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम् । परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ॥' एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः। युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षो- ग्रतयोर्नास्ति भेद इति वाच्यम्।प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः । नाप्यसौ क्रोधः । तत्र स्थापित्वेनास्याः संचारिणीत्वेनैव भेदात् । विप्रलम्भमहापत्तिपरमानन्दादिजन्मान्यस्मिन्नन्यावभास उन्मादः। शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् ।

उदाहरणम्-- 'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥' एषा प्रवासगतं स्वनायिकावृत्तान्तं प्रच्छन्तं नायकं प्रति कस्याश्चित्सं- देशहारिण्या उक्तिः । प्रियविरहोऽत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वै- चिच्यविशेषस्फोरणाय । रोगादिजन्या मूर्छारूपा मरणभागवस्था मरणम् । न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या- त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्रा- णसंयोगस्य हेतुत्वात् । अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णात् । परेति । उत्कृष्टेत्यर्थः । पराभू- तमिति युधिष्ठिरविशेषणम् । न चामर्षोग्रेति । कारणाधिक्यादिति भावः । अप्र- तीतेरिति । अस्यां वधादीच्छापि न । तस्मिन्नित्यनुभावभेदादिति भावः । असावुग्रता। भेदादिति । गुरुबन्धुवधादिजन्यः स्थायी, वागपराधादिजन्यः संचारीति भेद इत्यपरे । व्यावृत्तय इति । ज्ञानस्योन्मादत्वव्यावृत्तय इत्यर्थः। तस्याप्रसक्तेरिति । मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह-भावेषु चेति । अङ्गीकुरुते