पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगजाधरः। - उदाहरणम्-

'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् । अधुना खलु हन्त सा कशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्य- न्तमुपकारकत्वाद्वाक्यव्यङ्गयोऽप्ययं भावः पदव्यङ्गचतामावहति । एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम् । दयितस्य गु- णाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्म- रणं नाभूदिति वस्तु विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोष- कम् । अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघट- केन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पो- षक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति । अमङ्गलप्रा- यत्वात् । संदेहाधनन्तरं जायमान ऊहो वितर्कः। स च निश्चयानुकूलः। 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि । अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः॥' स्वात्मनि भगवतो रामस्यैषोक्तिः । भुवि सीतास्ति न वेति संदेहोऽत्र विभावः । भ्रूक्षेपशिरोङ्गुलिनर्तनमाक्षिप्तमनुभावः। न चासौ चिन्तेति शक्यं वदितुम् । चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात् । किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्ताया इदमित्थं भवितुमर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च । न विनेत्यादिनोक्तो- ऽर्थान्तरन्यासोऽप्यस्मिन्नेवानुकूलः । न । न प्रतिवदतीत्यर्थः । अत्र मरणे हन्तपदस्य दुःखातिशयबोधकत्वादिति भावः । प्रकृतेऽनुपदं वक्ष्यमाणरीत्या विप्रलम्भासंभवादाह-शोकेति । करुणस्थायीभावस्ये- त्यर्थः । अस्य पुरोऽनभिव्यक्तेराह-चरममिति । अत एवैतद्धवनित्वम् । तदेवाह-अयं चेति । नन्वस्य प्रधानोदाहरणं कुतो न दत्तमत आह--कवय इति । पुनःशब्दो हि- शब्दार्थे। आदिना विपर्ययपरिग्रहः ।आलम्बनमाधारभूतम् । ननु नियमे तदभावेऽपि लक्ष- णे तदनिवेशात्प्रकृते तत्संभव एवात आह-किं भविष्यतीति । ननु न विनेत्यादि- नार्थान्तरन्यासस्य प्रतीतेः कथं ध्वनित्वमत आह-न विनेत्यादीति । सामान्येन