पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ काव्यमाला। उदाहरणम्- 'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ विरहोऽत्रं विभावः । अङ्गक्षेपादिरनुभावः । भीरोोरेंसत्त्वंदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्वासः। अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः । यदाहुः 'औत्पातिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः ।' उदाहरणम् 'आलीषु केलीरभसेन बाला मुहुर्मंमालापमुपालपन्ती । आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥' अत्र पत्या स्ववचनाकर्णनं विभावः । पलायनमनुभावः । न चात्र ल- ज्जाया व्यङ्गयत्वमाशङ्कनीयम् । शैशवेनैव तस्या निरासात् । इदं वां विविक्तमुदाहरणम्- 'मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम् । खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि ॥' एषा भगवतो लीलागोपकिशोरस्योक्तिः । निद्राविभावोत्थज्ञानं सुप्तम् । स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य । अनिदंजन्यत्वात् । यत्तु प्राचीनैः 'अस्या- भवो ज्वरादिप्रभवः । तदुदन्तेति । नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवातैव सर्वाभिरुच्यत इति ध्वनितम् । तदलाभाईन्यं दृष्टौ । भीरोर्भयशीलस्य । सत्त्वं प्राणी। स्फूर्जथुर्वज्रनिर्घोषः । औत्पातिकैरुत्पातसूचकैघोरसत्वदर्शनादिभिः । मनःक्षेपश्चित्तवृ- त्तिविशेषः । केलीरभसेन क्रीडाराभस्येन । नायकोक्तिरियम् । आराहूरम् । ततोऽचिर- स्थायित्वेन विघुच्छोभालाभः । पत्या तत्कर्तृकम् । शब्दानुशासनमाचार्येण' इति- वत्प्रयोगः । शैशवेनैवेति । बालामदबोध्येनेत्यर्थः । तस्या लज्जायाः । एवं च मूले कुठारान्न तदाशङ्केति भावः । ननु बालापदं न शैशवबोधकम् , किं तु विशेषबोधकमत आह-इदं वेति । कशां ताडनरज्जुम्। वस्तुतस्तत्त्वाभावादाह--लीलेति । अनि