पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। गीपतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्त- स्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः । न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः । श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा। नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्यानुभावाः । उदाहरणम्- 'सा मदागमनबंहिततोषा जागरेण गमिताखिलंदोषा । बोधितापि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः ॥' रात्रिजागरणश्रमोऽत्र विभावः । मधुपैबोधाभावोऽनुभावः । शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः । अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः । उदाहरणम्- 'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमेतज्जलबुद्वदोपमं-' इत्यादिशास्त्रपर्यालोचनमत्र विभावः । ह- न्तपदगम्या स्वानिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । झगिति मते- रेव चमत्काराद्धवनिव्यपदेशहेतुता न । शान्तस्य विलम्बेन प्रतीतेः । रोगविरहादिप्रभवो मनस्तापो व्याधिः । गात्रशैथिल्यश्वासादयोऽत्रानुभावाः । यदाहुः- 'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपंतः। वातपित्तकफानां स्युर्व्याघंयो ये ज्वरादयः॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥ इतीति गर्वाकारः । सोल्लुण्ठं साभिप्रायम् । वचनेन आ सूलादित्यादि मा[द]न्य इ- त्यन्तेन । दोषा रात्रिः । ये ज्वरादय इति । लोके इति शेषः । इह शास्त्रे । तत्प्र-