पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ काव्यमाला।

निःश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥' इति । 'श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः । इति च । अयं च सत्यपि बले जायते । शारीरंव्यापारादेव च जायते । न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेदः । उदाहरणम्- 'विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना । चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ॥' अत्र विपरीतसुरतरूप: शारीरंव्यापारो विभावः । स्पन्दराहित्यशय- नादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शङ्कचम् । सुषु- प्तौ हि ज्ञानराहित्येनैवं यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्य- स्यानतिप्रयोजनकत्वापत्तेः । शीङाभिहिततया तस्या व्यङ्गचत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यमुचितम् । रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः । उदाहरणम्- 'आ मूलाद्रत्नसानोर्मलयंवलयितादा च कूलात्पयोधे- यविन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्क वदन्तु । मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥' अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेप- परैताद्दशवाक्यप्रयोगोऽनुभावः । इमं चासूयापि लेशतः पुष्णाति । उत्सा- हप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-'इत्यादि पद्ये टनं मोडनमिति भाषाप्रसिद्धम् । मन्दैरित्युत्तरान्वयि । अतो ग्लानेरिति । उक्तहेतु- द्वयाद्रानेः सकाशादित्यर्थः । दृष्टान्तेन सुषुप्तेरेव लाभः, न तु स्वप्नस्येत्याशयेनाह--- सुषुप्तौ हीति । नैवेति । यक्षं प्रति तस्य कारणत्वादिति भावः । ननु स्पष्टार्थमेव तदस्तु, अत आह- शीङेति । प्रकारतयेति भावः । तस्या निद्रायाः । रत्नसानुः सुमेरुः । मृद्रीका द्राक्षा । निर्यभिःसरन् । झरी प्रवाहः । तस्माद्वीररसध्वनेः । मदन्य