पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- रंसगङ्गाधरः। क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्ता- संगतवाक्यैः सुंकुमारस्खलद्गत्या च योऽभिनीयते स आद्यः । भुजाक्षे- पस्खलितपूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाशहिक्काछर्यादिभिरधमः । उदाहरणम्- 'मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्शनैः किमपि । कोकनादयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥' अत्र' मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्त- स्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्व- भावोक्त्यलंकारस्य प्राधान्यम्, अपि तु तद्धवन्युपैस्कारकत्वमेव । इदं वा पुनरुदाहरणम्- 'मधुरसान्मधुरं हि तवांधरं तरुणि मद्वदने विनिवेशय । मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ॥' अत्रापि स एव विभावः । अधिकवर्णोच्चारणादिरनुभावः । पूर्वार्धगता ग्राम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुपमेयतया निरूपणं च मदमेव. पोषयतः । बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः। यदाहुः- 'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः शेते रोदित्यधमसत्त्वः ॥' इति प्रदीपविरुद्धमेतत् । अव्यक्तेति । अस्पष्टाक्षरासंबद्ध- वाक्यरित्यर्थः सुकुमारेति कर्मधारयद्वयम् । शनैरित्यनेनाव्यक्तत्वं किमपीत्यनेनासंगत- त्वम् । त्रिलोकीं कोकनदयन् । आलम्बनेति क्रियाविशेषणम् । तनिष्ठेति । मत्तनि- ष्ठेत्यर्थः । तद्धवन्युपेति । मदभावध्वन्युपेत्यर्थः । ननु क्षीबपदेन विशेषणविधया वा- च्यस्य मदस्य कथं ध्वनितास्पदत्वम्, कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्गयस्य चम- त्करित्वमिति स्वयमेव प्रागावेदनात् । एवं च स्वभावोक्त्यलंकार एवायमत आह- इदं वा पुनरिति । हि यतो मधुरसान्मधुरं तव स्वस्य । स एव मादकद्रव्यसेवनरूप: प्रागुक्त एवेत्यर्थः । अधिकेति । पपहभभेत्यर्थः । पणं चेत्यस्योभे इति शेषः । अध्वेति त्रयाणां द्वन्द्वगर्भो बहुव्रीहिः । अनुभावकैरित्यस्याग्रेतनैरन्वयः । संवाहनं सेवनम् । मो- .