पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इष्टाप्राप्त्यनिष्टमाप्त्यादिजनिता ध्यांनापरपर्याया वैवर्ण्यभूले- खनाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता। यदाहुः- 'विभावा यत्र दारिघमैश्वर्यभ्रशनं तथा । इष्टार्थापहट्तिः शश्वच्छ्रासोच्छवासोच्छवासावधो मुखम् ॥ संतापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ॥ वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्येवोपजायते ॥ इति । 'ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता।' इति च । उदाहरणम्- 'अधराघुतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी । अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥' अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चा- त्रौत्सुक्यध्वनिरिति वाच्यम् । कस्य कृत इत्यनिर्धारितधर्म्यालम्बनाया- श्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनाव- बोधनात् । मद्याघुपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्ति- विशेषो मदः। यदाहुः-'संमोहानन्दसंदोहो मदो मद्योपयोगजः । ’इति । तत्रो- त्तमे पुरुषे स्वापोऽनुंभावः । मध्यमे हसितगाने । नीचे तु रोदनपरुषो-

अथ विभावकथनानन्तरम् । 'अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमग्रेऽपि । तथा चेतः प्राक्तनाविर्भावः । अस्या इत्यस्यानुभावा इत्यनेनान्वयात् । देहानुपस्कृतिर्देहाप्रसा- धनम् । वितर्को वक्ष्यमाणस्वरूपः । अस्तपल्लवेति पञ्चम्यर्थे बहुव्रीहिः । पल्लवपदेन त- च्छोभा । अकृतप्रतिमेति । उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र सं- बन्धः । तदप्राप्तिस्तादृशनायिकाप्राप्तिः । प्रतीयेत्यस्य द्राक्प्राधान्येनेत्यादिः । उपयोगः प्राशनम् । संमोहेति । अनयोः समूहो यत्रेत्यर्थः । तत्र शयनादीनां मध्ये । उत्तमे पुरुषे इति । 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्यमप्रकृतिः । परुषवचनाभिधायी