पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ८१ सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीताप- रित्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः । पतितसाम्यरूपस्वापकर्ष- भाषणमनुभावः। यदाहुः- चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याञ्च विभावतः । अनुभावात्तु शिरसोऽप्यावत्तेर्गात्रगौरवात् ॥ देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ॥' इति । 'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत् ।' इति च । अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपम- यैव परिपोषः, न तु शूद्राघुपमया । यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम् । पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकतेति तस्य पति- तेन साम्यम् । तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते । तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वा- द्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते । ऐति स्मृत्या च • लेशतः प्रतीयमानया।

काभावादाह-तज्जन्यमिति । चिन्तौत्सुक्यादिरूपविभात्रयतः, शिरसोऽप्या(भ्या). वृत्त्यादिरूपानुभावत्रयतो दैन्यं भावं जानीयादित्यर्थः । वचनान्तरमाह-दौर्गत्यादे- रिति । अनौजस्यमोजोगुणाभावः । सर्वं वात्र्कयं सावधारणमिति न्यायलभ्यमर्थमाह- नं तु विधिनेति । जात्यैव स्वभावेनैव । तेनैव पतितेनैव। तथाविधं पातित्यजनकम् । तस्य रामस्य । तस्याः सीतायाः । साम्यमित्यस्यानुषङ्गः । मेवालमिति । अलंकुरुत एवेत्यर्थः । न तु स्वयं प्रधानं येन गुणीभूतव्यङ्ग्यत्वापत्तिरिति भावः । उपादानलक्षणा- मूलध्वनिभ्यामिति । स्वार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा । लक्ष्यतावच्छेदकं चा- तिक्लेशे तदत्यक्तत्वं मत्पदस्य । वनवाससखीत्वमित्यादि च तत्पदस्य । व्यङ्गचार्थमाह- कृतघ्नत्वेत्यादि । यथाक्रममन्वयः । तदेवेति । दैन्यं परिपोष्यत एवेत्यर्थः । न तु प्राधान्यं येन दैन्यध्वनित्वोच्छेद इति भावः । सेतीति । यतस्तेन तद्धर्मप्रकाशोऽतो लेशतोऽङ्गतः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुषङ्गः । न तु प्राधान्यं येन स्मृतिध्वनित्वं स्यात्, न दैन्यध्वनित्वमिति भावः । यत्र चिन्तायाम् । ११