पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० काव्यमाला। -- • किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का । उदाहरणम्- 'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य । अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ॥ अत्र राजापराधो विभावः । मुखवैवर्ण्यादय आक्षेप्या अनुभावाः । इयं तु भयाघुत्पादनेन कम्पादिकारिणी, न तु चिन्ता । आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणा- दिहेतुर्दुःखविशेषो ग्लानिः । यथा- 'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव । प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥' अत्र प्रियाविरहो विभावः । मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्र- त्युद्गमचरणनिपतनाश्वेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्कचः । कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम् । यद्यपि 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः।' इति लक्षणवा- क्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाश- जन्यं दुःखमेव बलापचयशब्देन विवक्षितम् । दुःखदारिघ्रापराधादिजनितः स्वापकर्षभाषणादिहेतुश्चित्तवृत्ति- विशेषो दैन्यम् । उदाहरणम्- 'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता। अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती ॥' भावरूपवस्तुनः । उपयोगिता पोषकता । विधिर्दैवम् । इयं तु शङ्का । तुरेवार्थे । सुषमा शोभाविशेषः ।

श्रमस्तदाख्यो भावः । कारणेति । तच्च स्फुटीभविष्यति। लक्षणेति ।

मुन्युक्तेत्यादिः । अनुपपत्तिरसमावेशरूपा । विवक्षितमिति । एवं तु केचिद्न्यो- ऽपि सुयोज इति भावः । हतकेन हतसदृशेन । भाग्यरहितेनेति यावत् । वनजाक्षी जलजाक्षी । सहमा कारणं विनैव । परा उत्कृष्टा सरस्वती । श्रुतिरित्यर्थः । विनिगम-