पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ७९. यथा वा-- 'निरुद्धच यान्तीं तरसा कपोती कूजत्कपोतस्य पुरो ददाने । मयि स्मितार्द्र वदनारविन्दं सा मन्दमन्दं नमयांबभूव ।' पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि ब्रीडाया अनुगुण एव ॥ प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः । भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः । 'अवस्थान्तरंशबलिता सा तथा' इति तु नव्याः । उदाहरणम्- 'विरहेण विकलहृदया विलपन्ती दयित दयितेति । आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥' अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः । यथा वा- 'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः । नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ॥' लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश्चित्तवृत्तिवि- शेषो धृतिः। उदाहरणम्- 'संतापयामि हृदयं घावं धावं धरातले किमहम् । अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥' अत्र विवेकश्रुतसंपन्यादिर्विभावः । चापलाघुपशमोऽनुभावः । ननु चो- त्तरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्त्तेः ब्दार्थमाह-सदनेति । तरसा शीघ्रम् । स्मितेनार्द्रमिव नमयांबभूव नमयांचकार । अम्बुजालि कमलपङ्क्त्तिम् । जनितश्चासावुपप्लवश्च । उपद्रवश्चेत्यर्थः । धावं धावं धावित्वा धावित्वा । कथमिति । वस्तुध्वनित्वस्यैवौचित्यादिति भावः । तस्य चिन्ता-