पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तस्याश्चात्र वाक्यवेद्यत्वेऽपि. पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यमिति परास्तम् । सायंतनाम्बुजोप- मानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्द- मग्रताप्रकाशः। 'दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् । अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्ग चिरमङ्गनायाः ॥' इत्यत्र स्मृतिर्न भावः । स्वशब्देन निवेदनादव्यङ्गयत्वात् । नापि स्म- रणालंकारः । सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकार- त्वम्, अन्यस्य तु व्यञ्जितस्यं भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी। स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञामङ्गपराभवादेरु- त्पन्नो वैवर्ण्याधोमुखत्वांदिकारणीभूतश्चित्तवृत्तिविशेषो ब्रीडा । यथा- 'कुचकलशयुगान्तर्यामंकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सझ सद्यो विवेश ॥ अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलो- कनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशोऽनुभावः। तित्वेन स्मृतरिति । व्यक्तिर्य॑ञ्जना । 'व्यङ्गयस्य कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव चमत्कारित्वमित्यालंकारिकसमयः' इति पूर्वतनग्रन्थेन विरोधाच्चिन्त्यमेतत् । व्यङ्गयता- वच्छेदकतया भासमानजात्यादिरूपेण यत्र वाच्यता तत्रैवाचमत्कारिता । पूर्वोदाहरणे हि मनोरथत्वेच्छात्वयोर्घटत्वकलशत्ववदेकतया तेन रूपेणैव वाच्यतास्तीति न दोष इत्यपि कश्चित् । तस्या नायिकायाः । विभाव एव नायिकारूप एव । कथंचित्साम- म्यन्तराभावकृतः केशः । सपुलकतन्विति क्रियाविशेषणम् । गवाक्षे विनिहितवदनमि- त्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम् । तेनेति । प्रियेणेत्यर्थः । तत्कर्तृकमिति यावत् । पुलकादेर्दर्शनमित्यत्रान्वयः । तत्कुचेतिं । नायिकाकुचेत्यर्थः । एवमग्रेऽपि । सद्मश.