पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ७७ तदुक्तम्- 'देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरप्राप्यमनोहरधनागमः । तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते । नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ॥ अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत् ॥' इति । दाहरणम्- 'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधानां । अवलोक्यं समागतं तदा मामथ रामां विकसन्मुखी बभूक ॥' अत्रावधिकाले प्रियांगमनं विभावः । सुंखविकासोऽनुभावः । संस्कारजन्यं ज्ञानं स्मृतिः। यथा- 'तन्मञ्जु मन्दहसितां श्वसितानि तानि सा वै कलङ्कविधुरा मंधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः ॥' चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्या नायिकारूपस्य वि- भावस्य हन्तमदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भर- साभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् । तथापि स्मृतेरेवात्र पुरःस्फूर्तिक- त्वाच्चमत्कारित्वाच्च तद्धवनित्वमुक्तम् । तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्ति- रिति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव । जायते, नेत्रेत्याघुक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः । तदा अवधिकाले। अथ हर्षानन्तरम् । श्रीरित्यग्रे चेति शेषः । तद्धवनित्वं भावध्वनित्वम् । पूर्वमते स्मृति- त्वेन स्मृतेर्वाच्यत्वात्कथं भावध्वनित्वमत आह-बुद्धेरिति । शक्यतावच्छेदकतावच्छे- दकस्येत्यर्थः । द्वितीयमते बुद्धिस्थत्वस्य वाच्यत्वेऽपि न स्मृतित्वस्य तत्त्वमित्याह-स्मृ-