पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ध्यङ्गयान्तरन्यायेनेत्यपरे मन्यन्ते । विभावानुभावौ चात्र व्यञ्जकौ । न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपे- क्ष्यते । तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनु- भवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीयकतया तनिमांन- मावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा 'गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं सति गुणीभूतव्यङ्गचत्वापत्तिः । पृथग्विभा- वानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्य [भावान्तरगुणी- भूतस्यैव] गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्संभवतस्तदा न वार्येते । हर्षादयस्तु-हर्षस्मृतिवीडामो- हधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससप्तंविबोधाम- र्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारच- पलताः । प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशव्घभिचा- रिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्स- ल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परास्तम् । उच्छृङ्खलतीया मुनिव- चनपराहतत्वात् । तत्र इष्टप्राझ्यादि जन्मा सुखविशेषो हर्षः।

पादितमेतदधस्ताद्वन्थकृता । सापि तद्गतानां तेषां तथाभिव्यक्तिरपि । व्यङ्गया- न्तरेति । रसापेक्षया भिन्नं यव्घङ्गयं वस्त्वलंकारादि तद्रीत्येत्यर्थः । तथा च रसापे- क्षयाषकर्षः सूचितः । अत्र भावे। तस्यैव व्यभिचार्यन्तरस्य । प्रकरणादीनां तात्पर्ये नियामकत्वेन न तदापत्तिरित्या शयेन सिद्धान्तमाह-वस्तुतस्त्विाति । तदीयेति । प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम् । अत एवाग्रे 'अत एव नान्तरीयकस्य' इति वक्ष्यति । तनिमानमिति । क्रशिमान मित्यर्थः । विनिगमनाविरहादाह-अम. र्षादौ वेति । एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽङ्गत्वे सति । भावशरीरनिवि- ष्टहर्षादीनाह-हर्षादय इति । एतेन पुत्रादिविषयरतेर्मुनिना भावत्वगणनेनेत्यर्थः । तदाह-उच्छृङ्खलेति । तत्र हर्षादीनां मध्ये । देवेत्यादि उत्पत्त्यन्तो विभावो यत्र