पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। पप्रसङ्गात् । भावचमत्कारप्रकर्षाद्भावध्वनित्वम् । रसस्तु तत्र व्यज्यमानो- ऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चम- त्काररहितरसव्यक्त्तौ मानाभावात् । 'रसे हि धर्मिग्राहक गानेन्सनन्दांशाविनाभावस्य प्रागेवावेदनात् । अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जक- त्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथा-. प्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम् । भावादिचर्वणा- यामतिप्रसङ्गवारणाय चर्वणाविषयतेति चित्तवृत्तिविशेषणमिति वाच्यम् । 'कालागुरुद्रवं सा. हालाहलवद्विजानती नितराम् । अपि नीलोत्पलमालां बाला व्यालाबलिं किलांमनुते॥' इत्यत्र हालाहलसदृशत्वप्नकारकज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानु- भावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च । नाप्यखण्डम् । तत्त्वे मानाभावात् । अत्रोच्यते—विभावादिव्यज्यमानहर्षाद्यन्यतमत्वंत- त्त्वम् । यदाहुः-'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजि- कगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः, सापि रसन्यायेनेति केचित् । व्याप्तेरेव च । तद्विशेषणत्वे व्यञ्जकत्वविशेषणत्वे । अस्तु वा प्राधान्येनेति । रसं प्रति गुणीभूतत्वेऽपि वाच्यातिशायित्वात्तनित्वं राजानुगम्यमानविवहनप्रवृत्तभृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति । अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्यात्यापत्त्यभावेऽपि । तथापि विभावानुभावभिन्नत्वे सति [शब्द- भिन्नत्वे सति] रसव्यञ्जकत्वमित्युक्तावपि । भिन्नत्वे सतीत्युपलक्षणं शब्दभिन्नत्वे सती- त्यस्यापि । नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वणा आस्वादः । चर्वणायामतीति । 'रसाभिव्यञ्जकचित्तवृत्तित्वस्य तस्यां सत्त्वादिति भावः। कालागुरुद्रवं नितरां हालाह- लवद्विजानती सा बाला नीलोत्पलमालामपि व्यालावलि किलामनुतं इत्यन्वयः । तस्य ज्ञानस्य । चित्तवृत्तित्वाञ्चेति । अत्रैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम् । अखण्डं भावत्वमिति शेषः । तत्त्वे अखण्डत्वे । विशेष्यमात्रोक्तौ 'तेषां शब्दवाच्यत्वे तत्त्वापत्तिः । अत विभावादीति । तावन्मात्रोक्तौ रसेऽतिप्रसङ्ग इति समु- दितमुपात्तम् । अञ्जितोऽभिव्यक्तो व्यभिचारी भाव इत्यर्थः । स्थायिभावेति । प्रति-