पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यथामरुककविपद्ये- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रंमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ अत्रोत्थाय 'किंचिच्छनैरित्यत्र सवर्णझयद्वयसंयोगस्तत्रापि नैकटय्नेति सुतरामश्रव्यः । एवं झय्घटितसंयोगपरहस्वस्यापि । तथा शनैर्निद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफपटितसंयोगस्य, झय्घटितसंयोगपरह- स्वस्य च प्राचुर्यम् । विस्तब्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्म- सवर्णझयद्वयघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयो- गस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोगः कवेर्नि- र्माणसामंग्रीदारिघ्रं प्रकाशयति । इत्यलं पूरकीयकाव्यविमर्शनेन । इति संक्षेपेण निरूपिता रसाः । अथ भावध्वनिर्निरूप्यते- अथ किं भावत्वम् । विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति चेत् । रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः । अर्थद्वारा शब्दस्यापि व्यञ्ज- कत्वात् । द्वारान्तरनिरपेक्षत्वेन 'व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत । भावस्यापि भावनांद्वारैव व्यञ्जकत्वात् । भावनायामतिव्याप्त्यापत्तेश्च । अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः। प्रधानध्वन्यभानभावे रसव्यञ्जकताभावादव्याप्त्यापत्तेश्च । न च तर्त्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम् । भावध्वनिविलो- हरति --- यथेति । अत्र लज्जेति पृथक्पदम् । तेन समानकर्तृकत्वोपपत्तिः । एव- मिति । उक्तस्थल एवेत्यर्थः। नैकटयेनासकृत्प्रयोगोऽश्रव्य इति भावः । प्राचुर्यमिति। ' तथा चाश्रव्यमिति भावः । स्वात्मेति । स्वात्मघटितः सवर्णझयद्वयघटितश्चेति दोषद्व- यम् । घटितस्येति । द्वयस्य संयोगस्येत्यत्रान्वयः । सकृंदिति तस्य शेषः । तस्य च 'प्रयोग इत्वत्रान्वयः । एवमग्रेऽपि । तस्य प्रकाशने कर्तृत्वम् । निर्माणत्यस्य काव्येत्यादिः । अथ रसनिरूपणानन्तरम् । भावना पुनः पुनरनुसंधानम् । अत एव च भावनायामति-