पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ काव्यमाला।. - झयद्वयघटितसंयोगस्य सकृत्प्रयोगो यथा- 'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥' नन्वंत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्क- खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्स- वर्णझयद्वयसंयोगनिषेधो निरवकाश इति चेत् । न । सकृत्प्रयोगविषय- त्वेनास्य पार्थक्यात् । अन्यथा मनाक्करुष इति निर्दोषं स्यात् ।

महाप्राणघटितसंयोगो यथा- 'अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे ।' . उत्तरार्धं तु प्राचीनमेव। एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रिया- ण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्गयचर्वणातिरिक्तयोजनाविशेषापेक्षा- नापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्च संभवतोऽपि क- विर्न निवन्धीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं । स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् । विप्रलम्भे तु सुतराम् । यतो- मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमा- वहन्पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति । यदाहुः- "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥' मिति । अधुना द्वितीयेऽहि । अयोति । अयि तन्वाङ्गि, यदि वदनं मनाक् मन्दस्मि- तमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे । हन्तेति हर्षे । चन्द्रस्य साम्राज्यं श- मित कलय । जानीहीत्यर्थः । कखेति । स्वादिधातुपाठे इति भावः । व्यङ्गयेति । व्य- ङ्गयास्वादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति । निपा- तसमुदायो हेतौ । सुतरामिति । पूर्वोक्तसर्वानुषङ्गः ।, तनीयानपि पदार्थोः रजःकणः पदार्थैकदेशश्च स्वातन्त्र्यं स्वाभिमुखत्वं कुर्वन्नित्यर्थः । निबन्धनं शक्तावपि प्रमादित्वरूपं