पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। टवर्गझयाँ प्राचुर्यं यथा- 'वचने तव यत्र माधुरी सा हदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ॥' 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् । रेफघटितसंयोगस्यासकृत्प्रयोगो यथा- 'तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदांपि कुर्याः । लसन्ति नानाफलभारवत्यो लतोः कियत्यो गहनान्तरेषु ॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु । हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्यासकृत्प्रयोगो यथा-'विग- णय्य मे निकाय्यं तामनुयातोऽसि नैव तन्न्याय्यम् ।' ल-म-नानां स्वात्म- . नासंयोगस्तु न तथा पारुष्यमावहति । यथा- 'इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते । जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः ॥ . झयद्वयघटितसंयोगस्य यथा- 'आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा । अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ॥ अत्र द्वितीयार्धमरम्यम् । 'सरसिजकुंलेन संप्रति भामिनि ते मुखतु- लाधिगता' इति तु साधु । लीलाः । चपला विघुत् । एतेनान्यत्सर्वे रमणीयमिति सूचितम् । वचन इति । हे कोमले तव यत्र वचने सा माधुरी, स्वान्ते पूर्णा करुणा चाभूत् । हे हरिणाक्षि, अ- धुना । हेति खेदे । कथमिव तत्र यथाक्रमं कटुता कठोरता चाविरासीदित्यर्थः । अत्रो- त्तरार्धे टवर्गझयां नैकट्येन प्राचुर्यं बोध्यम् । अत एवाह-अधुनेति । अखर्वं गर्व- मित्यन्वयः । गहनं काननम् । साध्विति । एकत्र सत्त्वेऽपि प्राचुर्याभावः । हकारघ- टितसंयोगस्यासकृत्प्रयोगोदाहरणं त्रुटितमत्र । निकाय्यं निवासम् । तां सपत्नीम् । नायिकोक्तिर्नायकं प्रति ! वहतीति । अतस्तदन्यत्वं निवेशितमिति भावः । इय-