पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यदि बु ‘दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं' इत्यादि क्रियते तदा • सर्वमेव रमणीयम् । विसर्गप्राचुर्यं यथा- 'सानुरागाः सानुकम्पाश्चतुराः शीलशीतलाः। हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम् । जिह्वामूलीयप्राचुर्यं यथा- 'कलितकुलिशधाताः केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते मे । अयमपि बत गुञ्जन्नालि माकन्दमौली चुलुकयति मदीयां चेतनां चञ्चरीकः ॥' अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य । यदि च 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते तदा नायं दोषः । उपध्मानीयप्राचुर्यं यथा- 'अलकाः फणिशावंतुल्यशीला नयनान्ताः परिपुङ्खितेषुलीलाः । चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥' अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौ । त्येव । परिवेषच्छलेनेति भावः । यदि त्विति । दन्तकिरणरम्यं कमलशोभापहारी- त्यर्थः । हरन्ति । ममेति शेषः । नायकोक्तिरियम् । पूर्वार्धं तदवयवभूतम् । जिह्वेत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि । कलितेति । नायिकोक्तिः सखी प्रति । कलितः कृतः कुलिशवद्वज्रवद्धातो. यैस्तादृशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति । अत इह देशे मम जीविते कुशलं कथं जायताम् । वाशब्दः पादपूरण इवार्थे वा । कारणान्तरमाह-अयमिति । हे आलि, माकन्दतरुमौलावाम्रतरुमस्तके गुञ्जन्नयमपि चञ्चरीको अमरः । बतेति खेदे । मदीयां चेतनां चुलकयति । चुलकवदा पिबतीत्यर्थः । मलयाचलस्थतरुस्थितसर्पमुखनिःसृता इत्यर्थः । अत एव कृतान्ताः । अत्र सकृ- त्सत्त्वेऽपि प्राचुर्याभावः । अलका इति । यस्या इति शेषः । पुङ्खयुक्तबाणसदृश-