पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। त्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकटयेन बाहु- ल्यमश्रव्यताहेतुः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः । अथ विशेषतो वर्जनीयाः । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मंधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्न्- खस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफह- कारान्यतरघटितसंयोगस्य हलां लमनभिन्नानां स्वात्मना संयोगस्य झय्- द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकव्येन वर्जयेत् । सवर्णझयद्वयघटि- तसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य संकृदपीति संक्षेपः । दीर्घसमासो यथा- 'लोलालकावलिवलन्नयनारविन्द: लीलावशंवदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं व्रजन्त्या- श्चेतो न कस्य हरते गतिरङ्गनायाः ॥ झय्घटितसंयोगपरहत्वानां प्राचुर्ये नैकव्येन यथा- 'हीरस्फुरद्रदनशुभ्रिमशोभि कि च सान्द्रामृतं वदनमेणविलोचनायाः। वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः ॥' अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम् । शिष्टं तु रमणीयम् । उत्त- रार्धे ककारतकाररूमझयद्वयसंयोगस्य सत्त्वेऽपि प्राचुर्याभावान्न दोषः । तेषां मध्ये । ये चेत्यादौ यथाक्रमं सप्तम्यन्तद्वयानुंषङ्गः । समासमित्यस्य वर्जयेदित्यत्रा- न्वयः । अग्रिमसर्वषष्ठयन्तानामसकृत्प्रयोगमित्यत्रान्वयः । सवर्णेति । तुल्यास्यमिति सवर्णसंज्ञकेत्यर्थः। अपिनासकृत्समुच्चयः' । नैकव्येन प्रयोगं वर्जयेदित्यस्यानुषङ्गः। 'चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि स्वाधीनीकृतानि । सायाहनि साथंकाले। हीरेति । हीरैरवद्वा स्फुरन्तो ये रदना दन्तास्तेषां शुभ्रिम्णा शुभ्रत्वेन शोभते तच्छीलम् । सान्द्रं धनममृतं यस्मिस्तत् । यद्वा नञ् काक्काम् । अपि तु दूरीकरो-