पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। एकपदगतस्य तु तथा नाश्रव्यम् । यथा--'जाग्रता विजितः पन्थाः शात्रवाणां वृथोद्यमः' । परसवर्णकृतस्म तु संयोगस्य सर्वथा दीर्घागिन्नपदगतत्वाभावान्मधुरत्वाच्चानन्तर्यं न मनागप्यश्रव्यम् । यथा-'तां तमालतरुकान्ति--' इत्यादिपद्ये (६४.प्टष्ठे)। अत्र तामित्यत्र नीमित्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येक संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्बुदेत्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपद्गतत्वे सत्यव्यवहितोत्तरत्वं यद्य- पि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं विवक्षितमित्यदोषः । असकृत्तु सुतराम् । यथा--'एषा प्रिया मे क्व गता त्रपाकुला' । इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते । अथ , स्वेच्छया संध्यकरणं सकृदप्यश्रव्यम् । यथा--'रम्याणि इन्दुमुखि ते कि- लकिञ्चितानि' । प्रगृह्यताप्रयुक्तं त्वसकदेव। 'अहो अमी इन्दुमुखीविलासाः'। एवमेव च य-व-लोपप्रयुक्तम् । 'अपर इषव एते कामिनीनां हगन्ताः' । कथं तर्हि--- 'भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण । तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ॥' इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं.पाठान्न दोषः । एवं रोरु- गतस्येत्यस्य संयोगस्य दीर्घानन्तर्यमिति शेषः । न दीर्घादव्यवेति । परसवर्णेनैव व्यवधानादिति भावः । समस्ते पदे विशेषमाह-नवाम्बुदेति । अदोष इति। वस्तुत एकपदगमत्वेन तत्त्वाभावादिति भावः । असकृत्तु सुतरामिति । भिन्नपद- गतस्य संयोगस्य दीर्घानन्तर्यमसकृच्चेत्तर्हि सुतरामश्रव्यमित्यर्थः । अश्रव्यत्वमंशे इति शेषः । काव्यस्य पङ्गुत्वमिबेत्यन्वयः । रसायप्रतोतेस्तत्त्वमिति भावः । किलकिश्चितानि हावविशेषा इत्यर्थः । प्रयुक्तं तु संध्यकरणमित्यनुषङ्गः । एवमग्रेऽपि । असकृदेवेति । अन्यथा शास्त्रानर्थक्यं स्यादिति भावः । यवलोपे 'लोपः शाकल्यस्य' इति । तत्र यलो- पोदाहरणमाह-अपर इति । इषव इति 'इव त' इति पाठान्तरम् । भुजगेति । हे पृथ्वीनाथ, तवामात्या गारुडमन्त्रा इव भुजगाहितप्रकृतयः, तारा इव तुरगा इव सुखलीना इत्यन्वयः । भुजगानां सर्पाणां विटानां चाहिता प्रकृतिर्येषाम् । सुखेष्वा- सक्ताः । सुष्टु खे आकाशे लीनाः । सुष्टु खलीनं येषां ते तादृशाश्चेत्यर्थः । उपसंहरति- 'एवमिति। उक्तप्रकारेणेत्यर्थः । सर्वेऽपि वर्णानां स्वानन्तर्यमित्यादिनोक्ताः । तत्र ,