पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। - त्वीषन्निर्माणमार्मिकैकवेद्यम् । एतदप्यसकच्चेत्ततोऽधिकत्वात्साधारणैरपि वे- द्यम् । 'खग कलानिधिरेष विजृम्भते' । 'इति वदति दिवानिशं धन्यः'। पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्य न तथा। यथा-'तनुते तनुतां तनौ' । स्वानन्तर्य त्वश्रव्यमेव । यथा-'मम महती मनसि व्यथाविरासीत् । एतानि चाश्रव्यत्वानि गुरुव्यवाये नापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलस्वनः। यथा वा- 'यथां यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता । तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ॥ इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु- 'सदा जयानुषङ्गाणामङ्गानां संगरस्थलम् । रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥' इदं तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्र- व्यत्वमपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथ- कारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव । एवं व्यादीनां संयोगोऽपि प्राये- णाश्रव्यः । 'राष्ट्रे तवोष्ट्रयः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः। अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदग- तस्य सकृदप्यश्रव्यम् । असकृत्तु सुतराम् । 'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥ तयोरानन्तर्ये बोध्यमित्यन्वयः । ईषत्पदार्थमाह-निर्माणेति। साधारणैरपि निर्माणमा- र्मिकभिन्नैरपि । आद्योदाहरणमाह-खगेति । द्वितीयोदाहरणमाह-इतीति । चतुर्णी गतिमुक्त्वा पञ्चमानामाह-पञ्चेति । न तथा नाश्रव्यम् । स्वानन्तर्यमिति । पञ्चमानामित्यस्यानुषङ्गः । एतेषामपवादमाइ-एतानीति । गुर्विति । गुरुवर्णव्यव- धानेनेत्यर्थः । काक' इति पाठे संबोधनम् । तं प्रत्युक्तिः । युक्तस्तु सप्तम्यन्तपाठः । तत्त्वकथा ब्रह्मकथा । सर्वस्माद्विषयादाकृष्य । एकरसं स्वमयं ब्रह्ममयं च । गुरुर्द्वेधा, दीर्घः संयोगपरश्च। तत्राद्योदाहरणमुक्तम्,अन्त्यस्योच्यत इत्याह-इदं त्वित्यादि। गुरु- व्यवायेन तदंशे दोषाभावो न सर्वांशे इत्याह-इदं त्विति । प्रायेणेति । श्रुत्यकटुत्वे तु न तथेति भावः । उपसंहरति-एवमादय इति ।आघोदाहरणं हरिणीत्यभिप्रायम् ।