पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला ।

इति चेत् । नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितमुपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायामणि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेष्यते ।

यथा वा ---

'वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्पृशाम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥'

अत्र गुणान्तरासमानाधिकरणः प्रसादः ।

इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश्च वर्जनीयं किंचिन्निरूप्यते---वर्णानां स्वानन्तर्ये सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा---'ककुभसुरभिः, विततगात्रः, पललमिवाभाति' इत्यादौ । असकच्चेदधिकम् । यथा---'वितततरस्तरुरेष भाति भूमौ ।' एवं भिन्नपदगतत्वेऽपि । यथा---'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असकद्भिन्नपदगतत्वे तंतोऽप्यधिकम् । यथा---'पिक ककुभो मुखरीकुरु प्रकामम्' । एवं स्वसमानवर्ग्यानन्तर्ये सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा---'वितथस्ते मनोरथः' । असकृच्चेदधिकम् । यथा---'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा---'अथ तस्य वचः श्रुत्वा' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम् । प्रथमतृतीययोर्द्वितीयतृतीययोर्वानन्तर्ये तु तथा नाश्राव्यम् । किं


चन्द्रे सर्वथा साम्या प्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थः । रसस्य वीररौद्रबीभत्सात्मकस्य । भावस्य च व्यभिचारिभावस्य च । प्रसादस्योदाहरणान्तरमाह---यथा वेति । उदाहरणान्तरदाने बीजमाह---अत्रेति । स्वानन्तर्ये स्वाव्यवहितोत्तरत्वम् । किंचिदीषत् । एवं वर्णानां स्वानन्तर्ये सकृत्किंचिच्छ्रव्यमित्यर्थः । एवमग्रेऽपि । अत एवाग्रे ततोऽप्यधिकमित्युक्तम् । एतच्चेति । स्वसमानवर्ग्यानन्तर्ये चेत्यर्थः । तेषां