पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


६३
रसगङ्गाधरः ।

ब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव । प्रतिपाद्योद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् ।

यथा--
'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव-
न्मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्ब​हिर्मा कृथाः ॥

अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता । प्रसादेन चार्थव्यक्तेरिति । अर्थगुणेष्वपि श्लेषः । ओजस आद्याश्चत्वारो भेदाश्च वैचित्र्यमात्ररूपा न गुणान्तर्भावमर्हन्ति । अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्याद्गुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओज॑सः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अनवीकृतत्वामङ्गलरूपाश्लीलग्राम्यभग्नप्रक्रमा पुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्व​निरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि । समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः ।


योस्त्यागादिति । अत्रेदं चिन्त्यम्-कष्टत्वमोजोव्यञ्जकवर्णत्वम्, सुकुमारत्वं माधुर्यव्यञ्ज​कवर्णत्वम् । तथा चानयोः परस्पराभावत्वाभावात्कथं तेनान्यस्यान्यथा सिद्धिरिति। अर्थव्यक्तेरित्यस्य गतार्थतेत्यस्यानुषङ्गः । इतिः शब्दगुणान्तर्भावादिसमाप्तौ । अन्यथा वैचित्र्य​मात्ररूपत्वेऽपि गुणान्तर्भावे गुणभेदापत्तेरिति । एतेन चमत्कारानुगुणत्वरूपस्य वैचित्र्यस्य गुणत्वसाधकतेत्यपास्तम् । कान्तिश्चेत्यस्यैतानीति शेषः । अनधिकपदेत्यारभ्योक्तानीति तदर्थः। क्रमेणाह-अधिकेति । अर्थव्यक्तेः संग्रहायाह-स्वभाविति । कान्तेराह-रसेति । प्राधान्ये रसत्वमन्यथा रसवदलंकारत्वमिति भावः । समाधिस्त्विति । ज्ञानरूप इत्यर्थः । तस्यात्मगुणत्वादिति भावः । तदाह-कवीतिनतु गुण इति । अर्थस्य तत्कारणमिति शेषः । प्रतीति । तस्या अपि विषयतासंबन्धेन