पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
काव्यमाला ।

यथा---
'गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥'

अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम् । पापिष्ठत्वात्करुणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च ।

दीप्तरसत्वं कान्तिः ।

तत्र स्फुटप्र​तीयमानरसत्वम् । उदाहरणं च वर्णितमेव । रसप्रकरणे वर्णयिष्यते च ।

अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः।

ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वादर्थगुणता ।

आद्यो यथा-'तनयमैनाकगवेषण-(१९ पृष्टे) इत्यादौ, द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः । अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तैस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावालंकारैश्च गतार्थयन्तः, कांश्चिद्वैचित्र्यमात्ररूपतया क्वचिद्दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति । तथाहि-श्लेषोदारताप्रसादसमाधीनामोजोव्यञ्जकघटनायामन्तर्भावः । न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम् । माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात् । माधुर्यं तु परेषामस्मदभ्युपगतमाधुर्यव्यञ्जकमेव । एवं च सर्वत्र व्यञ्जके व्यङ्ग्यश-


यथेति । गणिका चाजामिलश्च तौ मुख्यौ येषां तान् । गणिका पिङ्गला । अजामिलो राजा । भागवते प्रसिद्धोऽयमर्थः । बत्तेति खेदे । भव एव मरुगर्तस्तत्र सीदन्दुःखी । प्रकृते मयि । मुख्यदीप्तत्वाभावादाह-तच्चेति । रसेत्यस्य पूर्वान्वयः। छायस्तत्सदृशः । नन्वालोचनं ज्ञानं तच्चात्मगुणो नार्थगुण इत्यत आह-ज्ञानस्येति । स्वोक्तौ तथाभावादाह-प्रायश इति । दोषाभावेति । द्वयोर्बहुवचनान्तानां द्वन्द्वः। तावतो दश । तत्रादौ शब्दगुणानां तेषामन्तर्भावायाह-श्लेषोदेति । घटनायां वर्णरचनायाम् । तदंशे सर्वत्र माधुर्यसत्त्वे मानाभावात् । प्रसादस्य सर्वरससाधारण्याच्चाह-प्रसादाभीति । प्रतिपाद्येति । प्रतिपाद्यस्य यदुद्भटत्वमनुद्भटत्वं च ताभ्यामित्यर्थः । प्राम्यत्वकष्टत्व-