पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। णायाः प्रश्ने कस्यचिन्नागरिकस्योत्तरं रूपं यदि ददासि तदा मम चिन्ता गमिष्यतीत्यभिप्रायगर्भम् । 'रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्ये । मा हन्त कातरा भू रसक्रियायां नितान्तनिपुणोऽस्मि ।' अत्र 'नापृष्टः कस्यचिह्नयात्' इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीतः प्रश्नो 'वैद्य, रोगस्य मे चिकित्सां करिष्यसि' इत्याकारो विदग्धनायिकारूपाया वकत्र्या वैशिष्टयात्संभोगरूपेणाभिप्रायेण गर्भितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । प्रश्नोत्तरयोर्द्वयोरपि निरभिप्रायत्वे 'त्वमिव पथिकः' इति कथितमेवोदाहरणम् । एते युन्नीतप्रश्नभेदाः । एवं निबद्धप्रश्नभेदा अप्युदाहार्याः । 'किमिति कृशासि' इति पद्यमपि चतुर्णा .निबद्धप्रश्नभेदानामुदाहरणभावमर्हति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति । अत्राहुः–अलंकारे ह्यस्मिन्प्रश्नोत्तरगतमसदुपनिबद्धत्वं जीवातुः । तथैव चमत्कारोदयात् । तेन सकृत्प्रश्नस्य सकृदुत्तरं नालंकारस्य भूमिः । न चोन्नीतप्रश्नोत्तरेऽव्याप्तिः । उन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाच्चोत्तरस्याप्येकत्वादिति वाच्यम् । प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम् । किं तु प्रश्नोत्तरपरम्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम् । यथा- 'श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जातः सोऽयं शीतांशुकन्यापयसि कथमभूत्तज्जलं कज्जलाक्तम् । व्याकुप्यन्नूरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी- लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः संगमेन ॥' अत्र 'कुत्र जातः' इत्यादिप्रश्नो 'मषीसंगमात्' इत्याद्युत्तर श्रवणादुद्गत इत्युन्नीत उच्यते । आद्यप्रश्नस्त्वनुन्नीतोऽप्युत्तरोत्थापनार्थं निबद्ध इति । एवं चास्मिन्मते प्राग्दर्शितान्युनीतप्रश्नोदाहरणान्यनुदाहरणान्येव । नुषङ्गः । एवमग्रेऽपि । कृते तत्प्राप्त्यर्थम् । सुवर्णपदार्थमाह-रूपमिति । कातरादीनां प्रश्नगतमिति । मत इत्यादि । आकूतमभिप्रायः । इति शिवम् ॥ १. 'नूरदीन' इत्यकबरसूनोर्जहांगीरशाहस्य नामान्तरम्,