पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२० काव्यमाला। अत्र कस्यचित्पान्थस्य पुरंध्र्याः कंचित्पथिकान्तरं प्रत्युत्तरेण तत्कर्तृकः कुशलप्रश्नोऽनुमीयते । कुशलमष्टष्टायाः कुशलोक्तेरयोगात् । 'किमिति कृशासि कृशोदरि किं तव परकीय वृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया ॥' अत्राद्यप्रश्नस्य हेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यङ्ग्यम् । उत्तरस्य तु न मया पतिव्रतया हेतुर्वक्तुं परपुरुषं प्रति योग्यः, न च त्वया प्रतिकर्तृं शक्य इति । द्वितीयप्रश्नस्य त्वलं पातिव्रत्येनाविदग्धजनहठमात्रविलसितेन । स्वपर संतोष एव संसारसार इति । द्वितीयोत्तरस्य तु या मम दशा सैव तव जायाया अपि दशास्ति । सैव प्रतिक्रियताम् । नहि स्वकीयं सदनं दह्यमानमुपेक्ष्य कश्चित्परसदनाग्निं प्रतिकरोति । अथ यदि परोपकारः स्वकीयां क्षतिमपि सोढा करणीय इत्यस्ति . मनीषा तदा तवैवंविधोपकारे प्रवृत्तस्य जायायाः केनचिदन्येन भवादृशेनोपकारः करणीय इति त्वयैव तस्या ममेव परपुरुषपराङ्मुख्या विरहो दूरीकर्तव्य इति । उन्नीतप्रश्ने सकदुत्तरस्य चारुत्वम्, निबद्धप्रश्ने तु प्रश्नोत्तरयोरसकदुपन्यासे तदिति प्राञ्चः । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयोरन्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधा । 'प्रियो हृदयवर्ती मे न मां मुञ्चति जातुचित् । उत्तरे नावकाशोऽस्ति दूरतस्ते मनोरथः ।।' अत्र केनचित्पान्थेन कांचित्साध्वी प्रति कुत्र तव प्रियोऽस्तीति कृतः प्रश्न उन्नीतः प्रियनैकट्ये तद्वञ्चनेन तदनैकट्ये च स्वाच्छन्द्येनावयोर्विलासो मान्मथो भविष्यतीत्यभिप्रायगर्भितः । अन्यथा 'दूरतस्ते मनोरथः' इत्यस्यासंगत्यापत्तेः । उत्तरं तु स्फुटत्वात्तदगर्भितम् । 'सुवर्णस्य कृते तन्वि देशं देशमटाम्यहम् । तस्य दुष्प्रापताहेतोश्चिन्ताक्रान्तं मनो मम ॥' अत्र कस्य हेतोश्चिन्ताक्रान्तं ते मन इति कस्याश्चित्स्फुटार्थे ग्रामी-