पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२२ काव्यमाला। अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्याम् । किं तून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु-प्रश्नोत्तरयोराकृतगर्भत्वे तावतैव चमत्कारान्नासकदुपादानापेक्षा । आकूतविरहे त्वसकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्ने । आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहृदयास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु । प्रकारान्तरेणाप्यस्य भेदाः संभवन्ति । पद्यान्तरवर्तित्वेन पद्यबहिर्वर्तित्वेन तावद्वैविध्यम् । तत्राद्यस्याभिन्नवाक्योद्गीर्णत्वभिन्नवाक्योगीर्णत्वाभ्यां पुनर्वैविध्यम् । पद्यान्तर्वर्तिपद्यबहिर्वतिनोर्द्वयोरप्युत्तरयोः सकृच्छब्दश्रुतिपर्यायत्वेन शब्दावृत्तिपर्यायत्वेनानेकेषां प्रश्नानामेकपदनिवेदितोत्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वम् । दिङ्मात्रेणादाह्रियते- 'किं कुर्वते दरिद्राः कासारवती धरा मनोज्ञतरा । को पावनस्त्रिलोक्यां ll' १ १. एतावानेवायं प्रन्थः समुपलभ्यते. टीकाप्येतावतो ग्रन्थस्यैव प्राप्यते.