पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। ५१७ ऽवान्तरभेदा इति युक्तम्, न तु पृथगलंकारा इति चेत्, उच्यते-एवं तर्ह्यभेदोऽप्येकोऽलंकारः । तदवान्तरभेदा रूपकपरिणामाद्यतिशयोक्तिप्रमुखा इत्यपि शक्यते वक्तुम् । विच्छित्तिभेदस्तु प्रकृतेऽपि तुल्यः । यत्तु-"मीलितरीत्या भेदाग्रहे प्राप्ते केनचिद्धेतुना भेदज्ञाने सति मीलितप्रतिद्वन्द्वि उन्मीलितम् । सामान्यरीत्या जातिभेदाग्रहे प्राप्ते केनचिद्धेतुना सति वैजात्यग्रहे सामान्यप्रतिद्वन्दि विशेषकं चेत्यलंकारद्वयम् । यथा- 'हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते ।' 'लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥" इति कुवलयानन्दकृदाह । तन्न । अनुमानालंकारेणैव गतार्थत्वादनयोरलंकारान्तरत्वायोगात् । न चात्र प्रत्यक्षसामग्र्या बलवत्वेनानुमितेरनुदयान्नानुमानालंकृतिः शक्यनिरूपणेति वाच्यम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानस्यैवानुमानालंकारलक्षणवाक्यगतेनानुमितिपदेन ग्रहणात् । अत एवं तत्रास्माभिः पक्षान्तरमुक्तम् । प्रकृते च विशेषदर्शनहेतुकस्य प्रत्यक्षस्यैव तथात्वात् । नहि प्रमाणविभाजकानां नैयायिकानामिवालंकारिकाणामपि सरणिः । येन प्रत्यक्षत्वानालिङ्गितामनुमितिं परिभाषेमहि । न चैवंविधे विषये नानुमितिपदप्रयोगोऽभ्यर्हितानामिति वाच्यम् । तथाप्युन्मीलितादिवत्परिभाषाया अनिवारणात् । अस्तु वानुमितित्वजातियुक्तैवानुमितिः । तथापि प्रकृते प्रतिबन्धकवशात्तस्या अनुदयेऽपि तत्करणस्याप्रत्यूहत्वेनानुमानत्वमव्याहतम् । नहि सत्यप्यग्नौ मणिमन्त्रादिभिः प्रतिबद्धो दाहो न भवतीति दाहकरणमाग्निर्नेति वक्तुं शक्यम् । फलायोगव्यवच्छेदस्तु न करणतायाः प्रयोजकः, अपि तु व्यापार एवेति । एतेन 'विशेषदर्शनस्य कोट्यन्तरभानप्रतिबन्धकत्वेन चक्षुःसंयोगादिरूपस्वसामग्रीवशादेवोत्पन्ने तादृशप्रत्यक्षे हेतुतायां माना- त्कारः । गतार्थत्वादिति । चिन्त्यमिदम् । नैयायिकादिसमतानुमितित्वजात्याक्रान्तस्यैव निबन्धनेऽनुमानालंकारस्वीकारात् । प्रकृते च भेदविशेषस्फूर्त्योर्विशेषदर्शनहेतुप्रत्यक्षरूपत्वात्तादृशप्रत्यक्षस्य चक्षुःसंयोगादिरूपस्वसामग्रीवशादेवोत्पत्तेस्तत्र व्याप्तिविशिष्ट-