पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। . अथ सामान्यम्- प्रतद्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिन्नत्वे- नाग्रहणं सामान्यम् । मीलिते तु निगृह्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः । उदाहरणम्- 'यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते । पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः।।' अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचलचमरीपुच्छयोरदर्शनादुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुणः । केचित्तु-"प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय ‘भिन्नजातीयत्वेनाग्रहणं' इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालंकारः । यथा- 'स्तबकभरैर्ललिताभिश्चलिताभिर्मारुतैर्नृप लताभिः । वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ।।' अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैर्लताभिः सह तत्तद्वयक्तितया भिन्नत्वेन ग्रहेऽपि भिन्नजातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात्" इत्याहुः। ननु भेदाग्रह एव मीलितसामान्यतद्गुणसाधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण । मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उपपादित एव । सामान्ये केषांचिद्गुणगुणिभेदाग्रहः, केषांचित्क्वचिदयं क्वचिजातिमात्रभेदाग्रहश्च । तद्गुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावान्तरभेदसत्वान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादितः पूर्णोपमादेः पृथगलंकारतापत्तेः । तस्माद्भेदाग्रहस्य त्रयो मीलितादयो- प्राग्वदाह-अथेति । निलयनं गोपनम् । तासां निलयनं च । विच्छित्तिश्चम-