पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१२ काव्यमाला । श्रिते सहृदयानामिच्छाद्वेषयोरुचितैवोत्पत्तिः, हरीतकीकदलभक्षणयो- रिवति । [इति रसगङ्गाधरे तिरस्कारप्रकरणम् ।] [अथ लेश:- गुणस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः। यथा-- अपि बत गुरुगर्वं मा स्म कस्तूरि यासी- रखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥' 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ।।' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् । 'स्खलन्ती स्वलोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निलीभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥' अत्र दोषोऽपराधः । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्कच्यम् । मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि 'अपि बत गुरु- गर्वं' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम्, अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि तस्यामेव विश्रान्तिः । एवं 'नैर्गुण्यमेव साधीयः' इत्यत्र शाख्य- प्राग्वदाह-अथेति । उभयेति । स्तुतिनिन्दारूपयेत्यर्थः । मुखं प्रारम्भः । सा-