पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. रसगङ्गाधरः। ज्ञानाभावाद्वेषोऽपि तथा । वैपरीत्यं तु कारणसत्त्वादुचितमिति चेत्, मैवम् । दोषगुणयोर्गुणदोषांशमादायेष्टद्विष्टसाधनताज्ञानयोः सत्त्वात्त्वदुक्तं कारणं तावदव्याहतम् । उत्कटद्विष्टाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस्य वाच्यत्वाद्वैपरीत्यमपि नोचितम्। अन्यथा सुखदुःखोभयसाधनेषु चान्द्रायणकलञ्जभक्षणादिषु हरीतकीदधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम एव स्यात् । अत्र च पुरुषकालप्रवेश आवश्यकः। उत्कटतत्पुरुषीयतात्कालिकद्विष्टाननुबन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधनताज्ञानं तत्पुरुषीयोपायेच्छां प्रति कारणम् । एवमुत्कटतत्पुरुषीयतात्कालिकेष्टाननुबन्धितत्पुरुषीय- तात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपायद्वेषं प्रति । तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः । इदं तु बोध्यम्- • फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते । एवं फले उत्कटद्वेषे- णोपायेऽपि द्वेष एव । एवं च सुखदुःखोभयसाधनेषु चान्द्रायणादिषु. यदि स्वसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्साधनेषु चान्द्रायणादिष्वपि सैव । अथ स्वसामग्रीवशात्प्रथमं दुःखे उत्कटद्वेषस्तदा चान्द्रायणादिषु स एव । उत्कटसामग्र्या बलवत्त्वकल्पनात् । उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाधनजन्ये इष्टानिष्टरूपे फलद्वये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेषश्च न संभवति । तथा सति चान्द्रायणादिष्वेकस्मिन्नेव समये इच्छाद्वेषयोद्वयोरप्यापत्तेः । एवं च बलवदनिष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चोपायेच्छाद्वेषयोः कारणतावच्छेदकेन देयमेवेत्याहुः । अन्ये तु फलेच्छाफलसाधनताज्ञानयोर्द्वयोरुपायेच्छां प्रति, फलद्वेषफलसाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम् । उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोमयसाधने न दोष इत्यपि वदन्ति । एवं चेष्टानिष्टोभयसाधने दोषे गुणे च गुणेन दोषेण च मि- तथा न युक्तः । शङ्कते-वैपेति । दोषेति । यत इत्यादिः । यथासंख्यमत्र । दधियुक्तं त्रपुसं 'फूट' इति प्रसिद्धम् । 'दधित्रपुसं प्रत्यक्षो ज्वरः' [इति] महाभाष्योक्तेः । अत्र चेति । उक्तकार्यकारणभावे पुरुषकालयोरित्यर्थः । प्रति कारणमित्यत्यानुषङ्गः ।। इति रसगङ्गाधरमर्मप्रकाशे तिरस्कारप्रकरणम् ॥