पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। - गुणाधानमित्युल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति । [इति रसगङ्गाधरेऽवज्ञाप्रकरणम् । [अथानुज्ञा-] उत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः प्रार्थनमनुज्ञा । यथा- 'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥' अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम् । इति रसगङ्गाधरेऽनुज्ञाप्रकरणम् । [अथ तिरस्कार:- एवम्- दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः। यथा- 'श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा- मदभ्राम्यदृङ्गावलिमधुरसंगीतसुभगाः । निमन्नानां यासु द्रविणरसपर्याकुलहृदां सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥ अत्र हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः । अमुं च तिरस्कारमलक्षयित्वानुज्ञां लक्षयतः कुवलयानन्दकतो विस्मरणमेव शरणम् । अन्यथा 'भवद्भवनदेहली-' इति तदुदाहृतपद्ये 'किमित्यमरसंपदा' इत्यंशे तिरस्कारस्य स्फुरणानापत्तेः । ननु कथमनयोरलंकारयोः संभवः । यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता- प्राग्वदाह-अथेति । अद्धति स्फुटावधारणयोः । तत्त्वातिशययोरित्येक ॥ [इति रसगङ्गाधरमर्मप्रकाशेऽनुज्ञाप्रकरणम् ॥]