पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। तस्योल्लासस्य विपर्ययोऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुण- दोषाधानाभाव इति पर्यवसितोऽर्थः । यथा- 'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥' अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकतारूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः । 'मध्येगलं विहरतां गरलं निकामं नागाधिपः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः ॥ अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मूर्तौ क्रूरत्वादिदोषाधानस्याभावः । न चात्रातद्गुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुनाजलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूर्तेर्गरलादिगतक्रूरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूरत्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । 'निष्णातोऽपि-' इत्यादौ तु तद्गुणस्याप्रसक्तिरेव । 'मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रताना- मास्येषु यास्यसि सतां विपुलं विलासम् ॥' अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभावः शाब्दः वाणीगतरमणीयतारू'पगुणप्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सहृदयगुणेन सरसतारूपेण वाण्या उल्लासरूप- प्राग्वदाह-अथेति । विहरतामित्यस्याग्रेऽपि यथायथमनुषङ्गः । भवेति । संसाराग्निदग्धैरित्यर्थः । पुनस्त्वर्थे ॥ इति रसगङ्गाधरमर्मप्रकाशेऽवज्ञाप्रकरणम् ॥