पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ' हिंसाप्रधानैः खलु यातुधानैर्यानीयतापावनतां सदैव । रामाङ्गियोगादथ सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीव ॥' अत्र दोषेण दोषः पूर्वाधे, द्वितीयार्धे तु गुणेन गुण इति विशेषः ।। यथा वा- 'भूषितानि हरेर्भक्तैर्दूषितानि पराङ्मुखैः । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥' अत्रोत्तरोत्तरव्यापकतया तथेति विशेषः। 'श्वपाकानां वातैरमितविचिकित्साविचलितै- र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् । मुदा मामुद्धर्तुं जननि घटयन्त्याः परिकरं तव श्लाघां कत कथमिव समर्थो नरपशुः ॥' अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धत्र्याः श्रीगङ्गायाः श्लाघयत्वं गुणः । यथा वा- श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ इहापि प्राग्वदेव । किं तु व्यङ्ग्यः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके । 'लौकिकार्थमयत्वादनलंकार एवं' इत्यपरे । इति रसगङ्गाधर उल्लासप्रकरणम् । अथावज्ञा- तद्विपर्ययोऽवज्ञा। वन्या वनसमूहः । मुनेरिति । गौतमस्याहल्यैवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकर कटिबन्धनम् । श्ववृत्तिः सेवा । त्वत् त्वाम् । भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्म- प्रकाश उल्लासप्रकरणम् ॥