पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. रसगङ्गाधरः । ५१३ न्तराणां निन्दा न विवक्षिता, किं तु सुखावस्थानम् । गुणिनः स्वगुणैर्दुःखितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वाद, प्रत्युत स्तुतेरेव •वाच्यत्वात् । 'स्खलन्ती स्वर्लोकात्' इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्यं तदा व्याजस्तुतिरप्यस्तु । तस्याः सावकाशत्वेनैतद्बाधकत्वायोगात् । 'रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु । सत्स्वेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥' अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकलवस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवितुरगाद्यदानस्यागुगत्वाद्गुणदोषयोभिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम् । अत एव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुक्तजाह्नवीस्तुतौ द्वयोरपि समावेशः । इति रसगङ्गाधरे लेशप्रकरणम् । [अथ तद्गुणः-] स्वगुणत्यागपूर्वकं स्वसंनिहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः। यथा- 'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥ यथा वा- 'अधरेण समागमाद्गदानामरुणिन्ना पिहितोऽपि शुद्धभावः । हसितेन सितेन पक्ष्मलाक्ष्या पुनरुलासमवाप जातपक्षः ॥' अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तद्गुणः । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्गुणः । परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोह्यमानत्वाद्भङ्गुरः । यदि तु हासेनाधरसितीकरणद्वारा वकाशत्वमेवाह--रवीति । अत एव भिन्नविषयत्वादेव ॥ इति रसगङ्गाधरमर्मप्रकाशे लेशप्रकरणम् ॥ ६५