पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे । तदविनाभावित्वात् । किं तु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदाद्धटापटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति । इति रसगङ्गाधरे प्रत्यनीकप्रकरणम् । अथ प्रतीपम्- प्रसिद्धौपम्यवैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् । तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । न तु प्रकारान्तरेण । उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्षं परिहर्तुं द्वितीयप्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम् । उपमानस्य कैमर्थ्यं चतुर्थम् । सादृश्यविघटनं पञ्चमम् । तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य, यच्चोपमानं तस्योपमेयत्वान्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपन्यप्रतिष्ठानं च निषिध्यमानसादृश्याव्यतिरेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, शृणु । उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावन्निर्विवादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेण न्यूनाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने । इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तु निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति । उदाहरणम्- हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधेनैतद्विषयत्वाच्चिन्त्यमिदम् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रत्यनीकप्रकरणम् ॥ प्राग्वदाह-अथेति । ननु ते अप्युपमावदेवात्रात आह-ते च साध्यत्वेति ।