पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । 'किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्णं स्यात् ॥' अत्र पूर्वार्धोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धै प्रतीपं बालाङ्गवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमातुं स्वप्नेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते । 'माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता रत्नानामहमेक एव भुवने को वापरो मादृशः। इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो दुग्धाब्धे भवता समो विजयते दिल्लीधरावल्लभः ॥' 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ।' उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि । पञ्चमो यथा- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः । कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥' अत्र कथं शृणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तरन्यासोऽप्यमुमेवार्थ पुष्णाति । तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः । पञ्चमस्त्वनुक्तवैधर्म्ये व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्याद्ये प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद्यं प्रतीपं