पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९४ काव्यमाला। अत्र च प्रतिपक्षगतं बलवत्त्वम्, आत्मगतं दुर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः । यथा- 'रेरे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥' 'जितमौक्तिकसंपदा रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥' पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यम् । एवमन्यदप्यूह्यम् । अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे तावद्धेत्वंशः शाब्दः उत्प्रेक्षांशमात्रमार्थम् । प्रथमोदाहरणे तु द्वयमप्यार्थम् । पुत्रमारकमेवकत्वेन कारणेन वैरस्य तस्य स्वात्मकर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मिनलंकारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्येवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् । 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥ इत्यलंकारसर्वस्वकृतोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्वक्रसदृशमिन्दुं राहुर्बाधित इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥' इति कुवलयानन्दकारेणोदाहृते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभर्यमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्वत्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्त- 'तत्प्रतिपक्षशङ्कितेऽस्मिन्निति चेत्, न' इति पाठः । न विद्म इति । मत्सरादेवेति ।