पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४९३ 'स्मरदीपदीप्तदृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः । झगिति प्रादुरभूवन्सख्यादिव चञ्चलाः परितः ॥' •इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः। 'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी । श्वथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गता सिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः। 'कथय कथमिवाशा जायतां जीविते में मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौलौ मनसिजमहिमानं मन्यमानो मिलिन्दः ॥' अत्र जीवितनाशं प्रति वातवानचञ्जरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नधर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यामकैकमिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः । इति रसगङ्गाधरे समाधिप्रकरणम् । अथ प्रत्यनीकम्- प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रसनीकम् । अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणागणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कारः क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । प्राग्वदाह-अथेति । सुषमा परमा शोभा। चञ्चला विद्युतः । घनो मेघः । घनतां निविडताम् । माकन्दश्चूतः ॥ इति रसगङ्गाधरमर्मप्रकाशे समाधिप्रकरणम् ॥ प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः ।