पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। इत्यत्रापि । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम्- यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः । यत्र तु सर्वाशे लोकसिद्धत्वं न तत्र कश्चिदलंकारः । अत एव 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्म्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशकृता, 'प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निदर्शितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुधया च वाचो वाङ्माधुर्यस्य चाभेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुराभवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्वं घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव । इति रसगङ्गाधरे पर्यायप्रकरणम् । अथ परिवृत्तिः- परकीययत्किंचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किंचिद्वस्तु- समर्पणं परिवृत्तिः। क्रय इति यावत् । सा च तावद्विविधा-समपरिवृत्तिविषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा-उत्तमैरुत्तमानां न्यूनैन्यूनानां चेति । विषमपरिवृत्तिरपि तथा–उत्तमैन्यूनानां न्यूनरुत्तमानां चेति । क्रमेणोदाहरणानि- 'अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव । त्रापि नोक्तरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम्- गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनत्वेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ।। इति रसगङ्गाधरमर्मप्रकाशे पर्यायप्रकरणम् ।। प्राग्वदाह- अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्र- ६१ -