पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥ अत्रापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभावः । यत्तु- 'बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ॥ इति कुवलयानन्दकृता विकासपर्यायो निजगदे तच्चिन्त्यम् । एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् । 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहृते च तथैव दृष्टत्वाच्च अस्मिन्नलंकारलक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः । यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति । स चायुष्मता नोट्टङ्कित एव । इदं तु बोध्यम्- 'प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥' अत्र न तावत्पर्यायः । उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्षणात् । यतोऽत्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम्, न तु मज्जत्विति । तथा- 'पूर्व नयनयोलग्ना ततो मग्ना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥' प्राग्वदाह-अथेति । वस्तुतो द्वित्वादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या क्रमिकत्वमिति शेषः । सारालंकार उचित इति । अत्रेदं चिन्त्यम्-~-भेदप्रतीतौ सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात् । अत्र हि रागयोः श्लेषेणाभेदाध्यवसायात् । वर्धमानकरूपालंकारान्तरस्वीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाश्रित्यानेन संग्रहस्यैवोचितत्वाच्च । अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम् । इत्य-